Gems-Hinduism
* आ नो भद्रा: क्रतवो यन्तु विश्वत:
* शं नो भवतु द्विपदे शं चतुष्पदे
* मा गृध: कस्यस्विद्धनम्
* सत्यं धर्मश्चैतानि मा माहासितु
* सत्यं वद धर्मं चर
* अहं ब्रह्मास्मि
* तत्त्वं असि
* सत्यं ब्रूयात् प्रियं ब्रूयात् , न ब्रूयात् सत्यम् अप्रियम् !
प्रियं च नानृतं ब्रूयात् एष: धर्म: सनातन : !!
* अहनि अहनि लोका गच्छन्ति यममन्दिरम् !
शेषाऽमृतत्वमिच्छन्ति किमाश्चर्यमत: परम् !!
* आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनम् ,
प्रत्यायान्ति गता: पुनर्न दिवसा: कालो जगद्भक्षक: !
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितम्,
तस्मानां शरणागतं शरणद त्वं रक्ष रक्षाधुना !!
Comments
Post a Comment